मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३५, ऋक् १३

संहिता

विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒ः समि॑द्धाः ।
विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥

पदपाठः

विश्वे॑ । अ॒द्य । म॒रुतः॑ । विश्वे॑ । ऊ॒ती । विश्वे॑ । भ॒व॒न्तु॒ । अ॒ग्नयः॑ । सम्ऽइ॑द्धाः ।
विश्वे॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न्तु॒ । विश्व॑म् । अ॒स्तु॒ । द्रवि॑णम् । वाजः॑ । अ॒स्मे इति॑ ॥

सायणभाष्यम्

अद्यस्मिन्नहनि प्रधानयागदिवसे विश्वे सर्वे मरुतोविश्वे सर्वे मरुद्गणसहचरितारुद्राद- योदेवाश्चोती ऊत्यै रक्षणाय भवंतु अपिच विश्वे सर्वे अग्नयः आहवनीयादयः समिद्धाः संदीप्ताः भवंतु । अपिच विश्वे सर्वे इंद्रादयोदेवानोस्माकमवसा रक्षणेनागमंतु आगच्छंतु किंचास्मे अस्मासु विश्वं सर्वं द्रविणं धनं वाजोन्नं चास्तु भवतु ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः