मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३६, ऋक् १

संहिता

उ॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
इन्द्रं॑ हुवे म॒रुत॒ः पर्व॑ताँ अ॒प आ॑दि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्व॑ः ॥

पदपाठः

उ॒षसा॒नक्ता॑ । बृ॒ह॒ती इति॑ । सु॒ऽपेश॑सा । द्यावा॒क्षामा॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
इन्द्र॑म् । हु॒वे॒ । म॒रुतः॑ । पर्व॑तान् । अ॒पः । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्व१॒॑रिति॑ स्वः॑ ॥

सायणभाष्यम्

बृहती बृहत्यौ महत्यौ सुपेशसा सुरूपे उषासानक्ता रात्र्युपसौ द्यावाक्षामा द्यावा- पृथिव्यौ च वरुणोमित्रो मित्रावरुणौ चार्यमा च येत्र विहितादेवास्तानेतानिंद्रं मरुतश्च पर्वताश्च अपउदकानिचादित्यांश्च द्यावापृथिवी द्यावापृथिव्यौ च पुनर्द्यावापृथिव्योर्ग्रहण मादरार्थं अपोंतरिक्षं च स्वः स्वर्गं च यष्टव्यं देवजातं हुवे ह्वयामि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः