मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३६, ऋक् १३

संहिता

ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे॑ मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः ।
ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा॑तन॒ द्रवि॑णं चि॒त्रम॒स्मे ॥

पदपाठः

ये । स॒वि॒तुः । स॒त्यऽस॑वस्य । विश्वे॑ । मि॒त्रस्य॑ । व्र॒ते । वरु॑णस्य । दे॒वाः ।
ते । सौभ॑गम् । वी॒रऽव॑त् । गोऽम॑त् । अप्नः॑ । दधा॑तन । द्रवि॑णम् । चि॒त्रम् । अ॒स्मे इति॑ ॥

सायणभाष्यम्

ये विश्वेदेवाः सत्यसवस्य सत्यप्रसवस्य सवितुर्मित्रस्य वरुणस्य मित्रावरुणयोश्च व्रते प्रसवाख्ये कर्मणि भवंति ते यूयं सौभगं सौभाग्यं वीरवत्पुत्राद्युपेतं गोमत् गोयुक्तं चित्रं पूजनीयं द्रविणं धनं चाप्नः कर्म चास्मे मह्यं दधातन प्रयच्छत ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११