मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३७, ऋक् २

संहिता

सा मा॑ स॒त्योक्ति॒ः परि॑ पातु वि॒श्वतो॒ द्यावा॑ च॒ यत्र॑ त॒तन॒न्नहा॑नि च ।
विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्य॑ः ॥

पदपाठः

सा । मा॒ । स॒त्यऽउ॑क्तिः । परि॑ । पा॒तु॒ । वि॒श्वतः॑ । द्यावा॑ । च॒ । यत्र॑ । त॒तन॑न् । अहा॑नि । च॒ ।
विश्व॑म् । अ॒न्यत् । नि । वि॒श॒ते॒ । यत् । एज॑ति । वि॒श्वाहा॑ । आपः॑ । वि॒श्वाहा॑ । उत् । ए॒ति॒ । सूर्यः॑ ॥

सायणभाष्यम्

सा सत्योक्तिः तत्सत्यवचनं मा मां विश्वतः सर्वतः परिपातु परिरक्षतु । यया सत्यो क्त्या यत्र यस्मिन् देशे द्यावाच द्यावापृथिव्यावहानि रात्रयश्च ततनन् अतन्वन् तत्र वि- श्वं सर्वमन्यत् भूतजातं निविशते विश्राम्यति यदेतद्भूतजातमेजति कंपते विश्वाहा सर्वदा आपश्च स्यंदते विश्वाहा सर्वदा सूर्यश्चोदेति सा सत्योक्तिर्मा परिपात्वित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२