मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३७, ऋक् ३

संहिता

न ते॒ अदे॑वः प्र॒दिवो॒ नि वा॑सते॒ यदे॑त॒शेभि॑ः पत॒रै र॑थ॒र्यसि॑ ।
प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ॥

पदपाठः

न । ते॒ । अदे॑वः । प्र॒ऽदिवः॑ । नि । वा॒स॒ते॒ । यत् । ए॒त॒शेभिः॑ । प॒त॒रैः । र॒थ॒र्यसि॑ ।
प्रा॒चीन॑म् । अ॒न्यत् । अनु॑ । व॒र्त॒ते॒ । रजः॑ । उत् । अ॒न्येन॑ । ज्योति॑षा । या॒सि॒ । सू॒र्य॒ ॥

सायणभाष्यम्

हे सूर्य ते तव समीपे प्रदिवः प्रत्नः पुरातनः कश्चिददेवोसुरोराक्षसोवा न निवासते न निवसति । कदेत्यतआह यद्यदा त्वं पतरैर्गमनशीलैरेतशेभिः अश्वैः रथर्यसि रथं कामयसे योक्तुम् । किंच प्राचीनमन्यत् त्वदीयं ज्योतिः रजउदकमनुवर्तते उन्येन तेन ज्योतिषा उद्या सि उदेषि । यद्वा प्राचीनमन्यद्रजश्चंद्राख्यं ज्योतिस्त्वामनुवर्तते ततस्त्वमन्येन ज्योतिषा स- होदेषीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२