मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३७, ऋक् ६

संहिता

तं नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इन्द्र॑ः शृण्वन्तु म॒रुतो॒ हवं॒ वचः॑ ।
मा शूने॑ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव॑न्तो जर॒णाम॑शीमहि ॥

पदपाठः

तम् । नः॒ । द्यावा॑पृथि॒वी इति॑ । तत् । नः॒ । आपः॑ । इन्द्रः॑ । शृ॒ण्व॒न्तु॒ । म॒रुतः॑ । हव॑म् । वचः॑ ।
मा । शूने॑ । भू॒म॒ । सूर्य॑स्य । स॒म्ऽदृशि॑ । भ॒द्रम् । जीव॑न्तः । ज॒र॒णाम् । अ॒शी॒म॒हि॒ ॥

सायणभाष्यम्

द्यावापृथिवी द्यावापृथिव्यौ आपश्च इंद्रश्च मरुतश्च नोस्माकं तं हवमाह्वानं नोस्माकं तद्वचः स्तुतिरूपं वाक्यं च नइतिद्विरुक्तिरादरार्था शृण्वंतु । किंच वयं सूर्यस्य संदृशि संद र्शने शूने प्रवृद्धाय दुःखाय माभूम मैव भवेम किंतु जीवंतः चिरं प्राणान् धारयंतोवयं भद्रं कल्याणं जरणां वृद्धत्वममरत्वं चाशीमहि प्राप्नुयाम ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२