मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३७, ऋक् ७

संहिता

वि॒श्वाहा॑ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव॑न्तो अनमी॒वा अना॑गसः ।
उ॒द्यन्तं॑ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥

पदपाठः

वि॒श्वाहा॑ । त्वा॒ । सु॒ऽमन॑सः । सु॒ऽचक्ष॑सः । प्र॒जाऽव॑न्तः । अ॒न॒मी॒वाः । अना॑गसः ।
उ॒त्ऽयन्त॑म् । त्वा॒ । मि॒त्र॒ऽम॒हः॒ । दि॒वेऽदि॑वे । ज्योक् । जी॒वाः । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ॥

सायणभाष्यम्

हे सूर्य त्वा त्वां सुमनसः प्रीतियुक्तमनस्काः सुचक्षसः सुदर्शनाः प्रजावंतः पुत्राद्युपेताः अनमीवाः रोगरहिताः अनागसः अपराधवर्जिताश्च वयं विश्वाहा सर्वदा यजेमेति शॆषः । किंच हे मित्रमहः मित्राणां पूजयितः सूर्य दिवेदिवे प्रतिदिनं अद्यंतमुदयं प्राप्नुवंतं त्वा त्वां ज्योक् चिरं जीवा जीवंतोवयं प्रतिपश्येम ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३