मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३७, ऋक् ८

संहिता

महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व॑न्तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ ।
आ॒रोह॑न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥

पदपाठः

महि॑ । ज्योतिः॑ । बिभ्र॑तम् । त्वा॒ । वि॒ऽच॒क्ष॒ण॒ । भास्व॑न्तम् । चक्षु॑षेऽचक्षुषे । मयः॑ ।
आ॒ऽरोह॑न्तम् । बृ॒ह॒तः । पाज॑सः । परि॑ । व॒यम् । जी॒वाः । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ॥

सायणभाष्यम्

हे विचक्षण विद्रष्टः सूर्य महि महत् ज्योतिस्तेजोबिभ्रतं धारयंतं भास्वंतं दीप्तिमंतं चक्षुषेचक्षुषे सर्वेषां द्रष्टृणां चक्षुषे मयः सुखकरं बृहतोमहतः पाजसोबलवतः परि महतो बलवतः सामुद्रस्योदकस्योपरीत्यर्थः । आरोहंतं त्वा त्वां जीवाश्चिरं जीवंतोवयं प्रति प्रति दिनं पश्येम ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३