मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३७, ऋक् ९

संहिता

यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते॑ अ॒क्तुभि॑ः ।
अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥

पदपाठः

यस्य॑ । ते॒ । विश्वा॑ । भुव॑नानि । के॒तुना॑ । प्र । च॒ । ईर॑ते । नि । च॒ । वि॒शन्ते॑ । अ॒क्तुऽभिः॑ ।
अ॒ना॒गाः॒ऽत्वेन॑ । ह॒रि॒ऽके॒श॒ । सू॒र्य॒ । अह्ना॑ऽअह्ना । नः॒ । वस्य॑साऽवस्यसा । उत् । इ॒हि॒ ॥

सायणभाष्यम्

हे हरिकेश हरितवर्णकेश सूर्य यस्य ते तव केतुना प्रज्ञानेन विश्वा विश्वानि भुवना- नि भूतजातानि प्रचेरते प्रकर्षेण गच्छंति अक्तुभिः रात्रिभिः निविशंते च विश्राम्यंति च स्वपंतीत्यर्थः । सत्वं नोस्माकं अनागास्त्वेन अपराधवर्जितत्वेन वस्यसावस्यसा अत्यंतश्रेय स्करेण वसुमत्तरेण वा अह्नाह्ना तेनतेन दिवसेनोदिहि उद्गच्छ ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३