मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३७, ऋक् १०

संहिता

शं नो॑ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ ।
यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्सू॑र्य॒ द्रवि॑णं धेहि चि॒त्रम् ॥

पदपाठः

शम् । नः॒ । भ॒व॒ । चक्ष॑सा । सम् । नः॒ । अह्ना॑ । शम् । भा॒नुना॑ । शम् । हि॒माः । शम् । घृ॒णेन॑ ।
यथा॑ । शम् । अध्व॑न् । शम् । अस॑त् । दु॒रो॒णे । तत् । सू॒र्य॒ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥

सायणभाष्यम्

हे सूर्य त्वं चक्षसा तेजसा नोस्माकं शं सुखकरोभव अह्ना दिवमेश शं सुखकरोनो- स्माकं भव भानुना रश्मिना च शं भवास्माकं सुखकरोभव । हिमा शैत्येन च शं भव घृणेन औष्णयेन च शंकरोभव । यथा यादृशेन नोस्माकमध्वन् अध्वनि मार्गे शं भवति दुरोणे गृहे च शं सुखमसद्भवति तच्चित्रं पूजनीयं द्रविणं धनं धेह्यस्मभ्यं प्रयच्छ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३