मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३७, ऋक् १२

संहिता

यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नम् ।
अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑ वसवो॒ नि धे॑तन ॥

पदपाठः

यत् । वः॒ । दे॒वाः॒ । च॒कृ॒म । जि॒ह्वया॑ । गु॒रु । मन॑सः । वा॒ । प्रऽयु॑ती । दे॒व॒ऽहेळ॑नम् ।
अरा॑वा । यः । नः॒ । अ॒भि । दु॒च्छु॒न॒ऽयते॑ । तस्मि॑न् । तत् । एनः॑ । व॒स॒वः॒ । नि । धे॒त॒न॒ ॥

सायणभाष्यम्

हे वसवोवासयितारोदेवाः वोयुष्माकं वयं जिह्वया वाचा मनसः प्रयुती प्रयुत्या प्र- योगेण उरु महद्देवहेळनं देवक्रोधनं च यदेनश्चकृम अकार्ष्म योस्मच्छत्रुर्नोस्मानभिप्रति अरावा गमनवान् भूत्वादुच्छुनायते पापान्याचरति अस्मानुद्वेजयति वा तस्मिन्नस्मच्छत्रौ तदेनोस्माभिः कृतं पापं निधेतन सूर्यस्याज्ञया निधत्त स्थापयतेत्यर्थः ॥ १२ ॥

अस्मिन्नइति पञ्चर्चं नवमं सूक्तं जागतमैंद्रं मुष्कविशिष्टइंद्राख्यऋषिः । तथाचानुक्रांतं- अस्मिन्नः पञ्चमुष्कवानिंद्रइति । गतोविनियोगः । अपरे तु तांड्यशाट्यायनकाअस्य सूक्तस्य मुष्कवानिंद्रोदेवता लुशऋषिरितिवर्णयंति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३