मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३८, ऋक् २

संहिता

स नः॑ क्षु॒मन्तं॒ सद॑ने॒ व्यू॑र्णुहि॒ गोअ॑र्णसं र॒यिमि॑न्द्र श्र॒वाय्य॑म् ।
स्याम॑ ते॒ जय॑तः शक्र मे॒दिनो॒ यथा॑ व॒यमु॒श्मसि॒ तद्व॑सो कृधि ॥

पदपाठः

सः । नः॒ । क्षु॒ऽमन्त॑म् । सद॑ने । वि । ऊ॒र्णु॒हि॒ । गोऽअ॑र्णसम् । र॒यिम् । इ॒न्द्र॒ । श्र॒वाय्य॑म् ।
स्याम॑ । ते॒ । जय॑तः । श॒क्र॒ । मे॒दिनः॑ । यथा॑ । व॒यम् । उ॒श्मसि॑ । तत् । व॒सो॒ इति॑ । कृ॒धि॒ ॥

सायणभाष्यम्

हे इंद्र ससर्वानुग्रहकत्वेन प्रसिद्धः त्वं नोस्माकं सदने गृहे क्षुमंतं अन्नवंतं शब्दवंतं वा गोअर्णसं गावोर्णउदकमिव प्रवृद्धायस्मिन् तं श्रवाय्यं श्रवणीयंरयिंधनं व्यूर्णुहि विविधमा- च्छादय । किंच हे वसो वासक शक्रेंद्र जयतः शत्रुं ते तव प्रसादात् वयं मेदिनोमेदसा युक्ताः बलवंतः स्याम भवेम । किंबहूक्त्या यथा यत् वयमुश्मसि कामयामहे तत्सर्वं कृधि कुरु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४