मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३८, ऋक् ३

संहिता

यो नो॒ दास॒ आर्यो॑ वा पुरुष्टु॒तादे॑व इन्द्र यु॒धये॒ चिके॑तति ।
अ॒स्माभि॑ष्टे सु॒षहा॑ः सन्तु॒ शत्र॑व॒स्त्वया॑ व॒यं तान्व॑नुयाम संग॒मे ॥

पदपाठः

यः । नः॒ । दासः॑ । आर्यः॑ । वा॒ । पु॒रु॒ऽस्तु॒त॒ । अदे॑वः । इ॒न्द्र॒ । यु॒धये॑ । चिके॑तति ।
अ॒स्माभिः॑ । ते॒ । सु॒ऽसहाः॑ । स॒न्तु॒ । शत्र॑वः । त्वया॑ । व॒यम् । तान् । व॒नु॒या॒म॒ । स॒म्ऽग॒मे ॥

सायणभाष्यम्

हे पुरुष्टुत बहुस्तुतेद्र योदासः कर्मकरः शूद्रः आर्यस्त्रैवर्णिकोवा देवश्चान्योसुरोवा नो- स्मान् युधये युद्धाय चिकेतति जानाति ते सर्वे शत्रवोस्मदरयस्ते तव प्रसादादस्माभिः सुसहाः स्वभिभवाः संतु भवंतु । किंच वयं त्वया सहायेन तान् शत्रून् संगमे संग्रामे वनुयाम हन्याम ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४