मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३९, ऋक् १

संहिता

यो वां॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो॑ दो॒षामु॒षासो॒ हव्यो॑ ह॒विष्म॑ता ।
श॒श्व॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं॑ हवामहे ॥

पदपाठः

यः । वा॒म् । परि॑ऽज्मा । सु॒ऽवृत् । अ॒श्वि॒ना॒ । रथः॑ । दो॒षाम् । उ॒षसः॑ । हव्यः॑ । ह॒विष्म॑ता ।
श॒श्व॒त्ऽत॒मासः॑ । तम् । ऊं॒ इति॑ । वा॒म् । इ॒दम् । व॒यम् । पि॒तुः । न । नाम॑ । सु॒ऽहव॑म् । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे अश्विनाश्विनौ वां युवयोः परिज्मापरितोगंता सुवृत् सुष्ठु वर्तमानोयोरथोदोषां रात्रिं उषसश्च अहोरात्रयोरित्यर्थः हविष्मता यजमानेन हव्योह्वातव्यः वां युवयोः स्वभूतं सुहवं शोभनाह्वानं तमु तमेव रथं शश्वत्तमासोतिशयेन चिरंतनावयं पितुर्न यथा पितुरिदं नाम तथा हवामहे ह्वयाम ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५