मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३९, ऋक् २

संहिता

चो॒दय॑तं सू॒नृता॒ः पिन्व॑तं॒ धिय॒ उत्पुरं॑धीरीरयतं॒ तदु॑श्मसि ।
य॒शसं॑ भा॒गं कृ॑णुतं नो अश्विना॒ सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतम् ॥

पदपाठः

चो॒दय॑तम् । सू॒नृताः॑ । पिन्व॑तम् । धियः॑ । उत् । पुर॑म्ऽधीः । ई॒र॒य॒त॒म् । तत् । उ॒श्म॒सि॒ ।
य॒शस॑म् । भा॒गम् । कृ॒णु॒त॒म् । नः॒ । अ॒श्वि॒ना॒ । सोम॑म् । न । चारु॑म् । म॒घव॑त्ऽसु । नः॒ । कृ॒त॒म् ॥

सायणभाष्यम्

हे अश्विना अश्विनौ युवां सूनृतावाचउषसोवा चोदयतं प्रेरयतं अस्माकं धियः क- र्माणि च पिन्वतं पूरयतं पुरंधीर्बह्वीः प्रज्ञाश्चोदीरयतं उद्गमयतंप्रेरयतंउत्पादयतमित्य- र्थः । तदेतन्त्रयमुश्मसि वयं कामयामहे । किंच नोस्माकंयशसं यशस्विनं भागं भजनीयं धनादिकं कृणुतं कुरुतम् । चारुं कल्याणं सोमं न सोममिव नोस्मान्मघवत्सु धनवत्सु कृतं कुरुतं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५