मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३९, ऋक् ४

संहिता

यु॒वं च्यवा॑नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा॑नं च॒रथा॑य तक्षथुः ।
निष्टौ॒ग्र्यमू॑हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या॑ ॥

पदपाठः

यु॒वम् । च्यवा॑नम् । स॒नय॑म् । यथा॑ । रथ॑म् । पुनः॑ । युवा॑नम् । च॒रथा॑य । त॒क्ष॒थुः॒ ।
निः । तौ॒ग्र्यम् । ऊ॒ह॒थुः॒ । अ॒त्ऽभ्यः । परि॑ । विश्वा॑ । इत् । ता । वा॒म् । सव॑नेषु । प्र॒ऽवाच्या॑ ॥

सायणभाष्यम्

हे अश्विनौ युवं युवां सनयं पुराणं च्यवानमृषिं यथा रथं जीर्णरथमिव पुनर्युवानं तरुणं चरथाय चरणार्थं तक्षथुः ततक्षथुः अकुरुतमित्यर्थः । तथाचयास्कः—युवां च्यवनं सनयं पुराणं यथारथं पुनर्युवानं चरणाय तक्षथुर्युवा प्रयौति कर्माणितक्षतिः करोति- कर्मेति । किंच युवां तौग्र्यं तुग्रपुत्रं भुज्युमद्भ्यः परि समुद्रस्योपरि निरूहथुः । किंच वां युवयोर्विश्वा विश्वानि ता तानि कर्माणि सवनेषु यज्ञेषु प्रवाच्या प्रवाच्यानि प्रकर्षेण वक्तव्यानि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५