मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३९, ऋक् ६

संहिता

इ॒यं वा॑मह्वे शृणु॒तं मे॑ अश्विना पु॒त्राये॑व पि॒तरा॒ मह्यं॑ शिक्षतम् ।
अना॑पि॒रज्ञा॑ असजा॒त्याम॑तिः पु॒रा तस्या॑ अ॒भिश॑स्ते॒रव॑ स्पृतम् ॥

पदपाठः

इ॒यम् । वा॒म् । अ॒ह्वे॒े । शृ॒णु॒तम् । मे॒ । अ॒श्वि॒ना॒ । पु॒त्राय॑ऽइव । पि॒तरा॑ । मह्य॑म् । शि॒क्ष॒त॒म् ।
अना॑पिः । अज्ञाः॑ । अ॒स॒जा॒त्या । अम॑तिः । पु॒रा । तस्याः॑ । अ॒भिऽश॑स्तेः । अव॑ । स्पृ॒त॒म् ॥

सायणभाष्यम्

हे आश्वना अश्विनौ वां युवामियं घोषाहं अह्वे आह्वयामि मे मम संबंधिनमिममा ह्वान श्रृणुतं श्रुत्वा चाह्वानं मह्यं पुत्रायेव यथा पुत्राय पितरा मातापितरौ तद्वत् शि- क्षतं धनं दत्तं अनापिरबंधुरज्ञा अकृतज्ञा असजात्या अमतिः अश्रद्धेया चाभिशस्तिः मामा गच्छति तस्याः अभिशस्तेः पुरा प्रागेव अवस्पृतं मामवपारयतं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६