मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३९, ऋक् ७

संहिता

यु॒वं रथे॑न विम॒दाय॑ शु॒न्ध्युवं॒ न्यू॑हथुः पुरुमि॒त्रस्य॒ योष॑णाम् ।
यु॒वं हवं॑ वध्रिम॒त्या अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथु॒ः पुरं॑धये ॥

पदपाठः

यु॒वम् । रथे॑न । वि॒ऽम॒दाय॑ । शु॒न्ध्युव॑म् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒ऽमि॒त्रस्य॑ । योष॑णाम् ।
यु॒वम् । हव॑म् । व॒ध्रि॒ऽम॒त्याः । अ॒ग॒च्छ॒त॒म् । यु॒वम् । सुऽसु॑तिम् । च॒क्र॒थुः॒ । पुर॑म्ऽधये ॥

सायणभाष्यम्

हे अश्विनौ युवं पुरुमित्रस्य पुरुमित्रनामधेयस्य योषणां दुहितरं शुंध्युवं नाम जायां विमदाय विमदनामधेयाय ऋषये रथेन स्वसेनापरिवृतेन रथेन न्यूहथुः प्रापयतं विम- दस्य गृहं नीतवंतौ स्थइत्यर्थः । तथाचनिगमांतरं—यावर्भगायविमदायजायांसेनाजुवान्यूह तूरथेनेति । किंच युवं युवां वध्रिमत्याः संग्रामे शत्रुभिः छिन्नहस्तायाहवमाह्वानमगच्छतं आगत्य तस्यै हिरण्मयं हस्तं प्रयच्छतम् । तथाचनिगमांतरं—अजोहवीन्नासत्याकरावांमहेया मन्पुरुभुजापुरंधिः । श्रुतंतच्छासुरिववध्रिमत्याहिरण्यहस्तमश्विनावदत्तमिति । किंच युवं युवां पुरंधये बहुप्रज्ञायै वध्रिमत्यै सुषुतिं सुप्रसवं शोभनमैश्वर्यं वा चक्रथुः कृतवंतौस्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६