मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३९, ऋक् १०

संहिता

यु॒वं श्वे॒तं पे॒दवे॑ऽश्वि॒नाश्वं॑ न॒वभि॒र्वाजै॑र्नव॒ती च॑ वा॒जिन॑म् ।
च॒र्कृत्यं॑ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं॑ मयो॒भुव॑म् ॥

पदपाठः

यु॒वम् । श्वे॒तम् । पे॒दवे॑ । अ॒श्वि॒ना॒ । अश्व॑म् । न॒वऽभिः॑ । वाजैः॑ । न॒व॒ती । च॒ । वा॒जिन॑म् ।
च॒र्कृत्य॑म् । द॒द॒थुः॒ । द्र॒व॒यत्ऽस॑खम् । भग॑म् । न । नृऽभ्यः॑ । हव्य॑म् । म॒यः॒ऽभुव॑म् ॥

सायणभाष्यम्

हे अश्विनाश्विनौ युवं युवां पेदवे पेदुनामधेयाय राज्ञे श्वेतं श्वेतवर्णं वाजिनं बलिनं नवभिर्नवती नवत्या चाश्वैः सहितं चर्कृत्यं संग्रामाणां अत्यर्थं कर्तारं शत्रूणां जेतारं वा द्रवयत्सखंशत्रुसखानां द्रावयितारं हव्यं ह्वातव्यं मयोभुवं सुखस्य भावयितारं अश्वं नृ- भ्योमनुष्येभ्योभगं न भजनीयं धनमिव ददथुः प्रायच्छतं ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६