मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३९, ऋक् ११

संहिता

न तं रा॑जानावदिते॒ कुत॑श्च॒न नांहो॑ अश्नोति दुरि॒तं नकि॑र्भ॒यम् ।
यम॑श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ॑णु॒थः पत्न्या॑ स॒ह ॥

पदपाठः

न । तम् । रा॒जा॒नौ॒ । अ॒दि॒ते॒ । कुतः॑ । च॒न । न । अंहः॑ । अ॒श्नो॒ति॒ । दुः॒ऽइ॒तम् । नकिः॑ । भ॒यम् ।
यम् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी । पु॒रः॒ऽर॒थम् । कृ॒णु॒थः । पत्न्या॑ । स॒ह ॥

सायणभाष्यम्

हे राजानावीश्वरौ अदिते अदीनौ सुहवा स्वाह्वानौ रुद्रवर्तनी स्तोत्रयुक्तमार्गौ हे अ- श्विना अश्विनौ युवां यं जनं पुरोरथं अग्रतोरथं पत्न्या सह स्वयंवरे कृणुथः कुरुथः तंजनं कुतश्चन कुतोपि अंहः पापं नाश्नोति नव्याप्नोति दुरितं दुर्गतिरपिनाश्नोति नकिः नच भयं प्राप्नोति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७