मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३९, ऋक् १२

संहिता

आ तेन॑ यातं॒ मन॑सो॒ जवी॑यसा॒ रथं॒ यं वा॑मृ॒भव॑श्च॒क्रुर॑श्विना ।
यस्य॒ योगे॑ दुहि॒ता जाय॑ते दि॒व उ॒भे अह॑नी सु॒दिने॑ वि॒वस्व॑तः ॥

पदपाठः

आ । तेन॑ । या॒त॒म् । मन॑सः । जवी॑यसा । रथ॑म् । यम् । वा॒म् । ऋ॒भवः॑ । च॒क्रुः । अ॒श्वि॒ना॒ ।
यस्य॑ । योगे॑ । दु॒हि॒ता । जाय॑ते । दि॒वः । उ॒भे इति॑ । अह॑नी॒ इति॑ । सु॒दिने॒ इति॑ सु॒ऽदिने॑ । वि॒वस्व॑तः ॥

सायणभाष्यम्

हे अश्विनाश्विनौ वां युवयोर्यं रथं ऋभवश्चक्रुः अकार्षुः यस्य रथस्य योगे संबंधे सति दिवोदुहितोषाः जायते प्रादुर्भवति यस्य च योगे विवस्वतोभास्करादुभे अहनी अहोरात्रे सुदिने शोभने जायेते तेन रथेन मनसोपि जवीयसा वेगवत्तरेणायातं युवामा- गच्छतमस्मान् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७