मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४०, ऋक् १

संहिता

रथं॒ यान्तं॒ कुह॒ को ह॑ वां नरा॒ प्रति॑ द्यु॒मन्तं॑ सुवि॒ताय॑ भूषति ।
प्रा॒त॒र्यावा॑णं वि॒भ्वं॑ वि॒शेवि॑शे॒ वस्तो॑र्वस्तो॒र्वह॑मानं धि॒या शमि॑ ॥

पदपाठः

रथ॑म् । यान्त॑म् । कुह॑ । कः । ह॒ । वा॒म् । न॒रा॒ । प्रति॑ । द्यु॒ऽमन्त॑म् । सु॒ऽवि॒ताय॑ । भू॒ष॒ति॒ ।
प्रा॒तः॒ऽयावा॑नम् । वि॒ऽभ्व॑म् । वि॒शेऽवि॑शे । वस्तोः॑ऽवस्तोः । वह॑मानम् । धि॒या । शमि॑ ॥

सायणभाष्यम्

हे नरा कर्मणां नेतारावश्विनौ वां युवयोः संबंधिनं द्युमंतं दीप्तिमंतं प्रातर्यावाणं यज्ञं प्रति विलंबेन प्रातः काले गंतारं विश्वं विभुं व्यापिनं विशेविशे सर्वेषु मनुष्येषु वस्तो- र्वस्तोः अन्वहं वहमानं धनं प्रापयंतं यान्तं गच्छंतं रथं कुह कस्मिन् देशे कोह कःखलु यजमानः शामि यज्ञरूपे कर्मणि धिया स्तुतिरूपेण कर्मणा सुवितायाभ्युदयार्थं प्रतिभूष- ति अलंकरोति कस्मिन्देशे यज्ञे कोन्यो यजमनोयुवां स्तुतिभिर्हविर्भिश्च पूजितवान् प्रति विलंबेन गतवंतौ स्थइत्यभिप्रायः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८