मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४०, ऋक् २

संहिता

कुह॑ स्विद्दो॒षा कुह॒ वस्तो॑र॒श्विना॒ कुहा॑भिपि॒त्वं क॑रत॒ः कुहो॑षतुः ।
को वां॑ शयु॒त्रा वि॒धवे॑व दे॒वरं॒ मर्यं॒ न योषा॑ कृणुते स॒धस्थ॒ आ ॥

पदपाठः

कुह॑ । स्वि॒त् । दो॒षा । कुह॑ । वस्तोः॑ । अ॒श्विना॑ । कुह॑ । अ॒भि॒ऽपि॒त्वम् । क॒र॒तः॒ । कुह॑ । ऊ॒ष॒तुः॒ ।
कः । वा॒म् । श॒यु॒ऽत्रा । वि॒धवा॑ऽइव । दे॒वर॑म् । मर्य॑म् । न । योषा॑ । कृ॒णु॒ते॒ । स॒धऽस्थे॑ । आ ॥

सायणभाष्यम्

हे अश्विनाश्विनौ कुहस्वित् क्वस्विद्दोषारत्रौ भवथइतिशॆषः कुह वस्तोः क्व वा दिवा भवथः कुह क्व वाभिपित्वमभिप्राप्तिं करतः कुरुथः कुह क्ववा ऊषथुः वसथः । किंच वां युवां कोयजमानः सधस्थे सहस्थाने वेद्याख्ये आकृणुते परिचरणार्थमात्माभिमुखीकरोति । तत्र दृष्टांतौदर्शयति—शयुत्रा शयने विधवेव यथा मृतर्तृका नारी देवरं भर्तृभ्रातरं अभि- मुखीकरोति । मर्यं न यथा च सर्वं मनुष्यं योषा सर्वा नारी संभोगकालेभिमुखी करोति तद्वदित्यर्थः । तथाच यास्कः—क्वस्विद्रात्रौ भवथः क्वदिवा क्वाभिप्राप्तिं कुरुथः क्ववसथः कोवां शयने विधवेवं देवरं देवरः कस्माद्द्वितीयोवरउच्यते विधवाविधातृकाभवति विधव नाद्वा विधावनाद्वेति चर्मशिराअपिवा धवइति मनुष्यनाम तद्वियोगाद्विधवा देवरो दीव्य- तिकर्मा मर्योमनुष्यामरणधर्मा योषायौतेराकुरुते सहस्थानेइति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८