मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४०, ऋक् ३

संहिता

प्रा॒तर्ज॑रेथे जर॒णेव॒ काप॑या॒ वस्तो॑र्वस्तोर्यज॒ता ग॑च्छथो गृ॒हम् ।
कस्य॑ ध्व॒स्रा भ॑वथ॒ः कस्य॑ वा नरा राजपु॒त्रेव॒ सव॒नाव॑ गच्छथः ॥

पदपाठः

प्रा॒तः । ज॒रे॒थे॒ इति॑ । ज॒र॒णाऽइ॑व । काप॑या । वस्तोः॑ऽवस्तोः । य॒ज॒ता । ग॒च्छ॒थः॒ । गृ॒हम् ।
कस्य॑ । ध्व॒स्रा । भ॒व॒थः॒ । कस्य॑ । वा॒ । न॒रा॒ । रा॒ज॒पु॒त्राऽइ॑व । सव॑ना । अव॑ । ग॒च्छ॒थः॒ ॥

सायणभाष्यम्

हे नरा नेतारावश्विनौ युवां प्रातः प्रातः काले जरेथे स्तोतृभिः स्तूयेथे । तत्र दृष्टांतः- जरणेव यथाजरणावैश्वर्येण वृद्धौ राजानौ कापया प्रातः प्रबोधकस्य बंदिनोवाणी कापा तया स्तूयेते तद्वदित्यर्थः । किंच वस्तोर्वस्तोरन्वहं यजता यष्टव्यौ युवां गृहं यजमानस्य मंदिरं गच्छथः प्राप्नुथः तौ युवां कस्य यजमानसंबंधिनो दोषस्य ध्वस्रा ध्वंसकौ विना- शयितारौ भवथः कस्य यजमानस्य सवना सवनानि राजपुत्रेव राजकुमाराविव युवाम- वगच्छथः प्राप्नुथः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८