मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४०, ऋक् ४

संहिता

यु॒वां मृ॒गेव॑ वार॒णा मृ॑ग॒ण्यवो॑ दो॒षा वस्तो॑र्ह॒विषा॒ नि ह्व॑यामहे ।
यु॒वं होत्रा॑मृतु॒था जुह्व॑ते न॒रेषं॒ जना॑य वहथः शुभस्पती ॥

पदपाठः

यु॒वाम् । मृ॒गाऽइ॑व । वा॒र॒णा । मृ॒ग॒ण्यवः॑ । दो॒षा । वस्तोः॑ । ह॒विषा॑ । नि । ह्व॒या॒म॒हे॒ ।
यु॒वम् । होत्रा॑म् । ऋ॒तु॒ऽथा । जुह्व॑ते । न॒रा॒ । इष॑म् । जना॑य । व॒ह॒थः॒ । शु॒भः॒ । प॒ती॒ इति॑ ॥

सायणभाष्यम्

हे अश्विनौ युवां वारणा वारणौ मृगेव यथा शार्दूलौ मृगण्यवोमृगयवः तद्वद्वयं दोषा रात्रौ वस्तोरहनि च हविषा निह्वयामहे नियमेन ह्वयामः । किंच हे नरा नेतारावश्वि- नौ युवं युवां ऋतुथा कालेकाले होत्रामाहुतिं जुह्वते जुह्वति यजमानाइतिशेषः । किंच युवां शुभः शुभस्य वृष्ट्युदकस्य पती स्वामिनौ संतौ जनाय जनार्थमिषं अन्नं वहथः प्रापयथः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८