मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४०, ऋक् ७

संहिता

यु॒वं ह॑ भु॒ज्युं यु॒वम॑श्विना॒ वशं॑ यु॒वं शि॒ञ्जार॑मु॒शना॒मुपा॑रथुः ।
यु॒वो ररा॑वा॒ परि॑ स॒ख्यमा॑सते यु॒वोर॒हमव॑सा सु॒म्नमा च॑के ॥

पदपाठः

यु॒वम् । ह॒ । भु॒ज्युम् । यु॒वम् । अ॒श्वि॒ना॒ । वश॑म् । यु॒वम् । शि॒ञ्जार॑म् । उ॒शना॑म् । उप॑ । आ॒र॒थुः॒ ।
यु॒वोः । ररा॑वा । परि॑ । स॒ख्यम् । आ॒स॒ते॒ । यु॒वोः । अ॒हम् । अव॑सा । सु॒म्नम् । आ । च॒के॒ ॥

सायणभाष्यम्

हे अश्विनाश्विनौ युवं ह युवां खलु भुज्युं समुद्रमध्ये विपन्ननावं तुग्रपुत्रं भुज्युमुपा- रथुः उत्तारयितुमुपगतवंतौ भवथः । किंच युवं युवां वशहस्तिबलेन शत्रुभिः पराजयमानं वशनामधेयं राजान रक्षणायोपारथुः । किंच युवं युवां शिंजारं अत्रिं अग्निकूटादुत्तारयितुं उशनां कमनीयां स्तुतिं च श्रोतुं उपारथुः । तथाव मंत्रांतरं—अत्रिंशिंजारमश्विनेति । किंच युवोर्युवयोः सख्यं मित्रत्वं ररावा हविषां प्रदाता यजमानः पर्यासते पर्यास्ते छांदसोव- चनव्यत्ययः । किंच युवोर्युवयोः अवसा रक्षणेनाहं घोषा सुम्रं सुखं आचके कामये ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९