मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४०, ऋक् ८

संहिता

यु॒वं ह॑ कृ॒शं यु॒वम॑श्विना श॒युं यु॒वं वि॒धन्तं॑ वि॒धवा॑मुरुष्यथः ।
यु॒वं स॒निभ्य॑ः स्त॒नय॑न्तमश्वि॒नाप॑ व्र॒जमू॑र्णुथः स॒प्तास्य॑म् ॥

पदपाठः

यु॒वम् । ह॒ । कृ॒शम् । यु॒वम् । अ॒श्वि॒ना॒ । श॒युम् । यु॒वम् । वि॒धन्त॑म् । वि॒धवा॑म् । उ॒रु॒ष्य॒थः॒ ।
यु॒वम् । स॒निऽभ्यः॑ । स्त॒नय॑न्तम् । अ॒श्वि॒ना॒ । अप॑ । व्र॒जम् । ऊ॒र्णु॒थः॒ । स॒प्तऽआ॑स्यम् ॥

सायणभाष्यम्

हेअश्विना अश्विनौ युवं युवां ह खलु कृशं दुर्बलं कृशनामधेयं वा उरुष्यथः रक्षथः । किंच युवं युवां शयुं शयुनामानमृषिं उरुष्यथः । किंच युवं युवां विधंतं परिचरंतं मानु- ष्यं विधवां चापतिकां वध्रिमतीं योध्रीं स्त्रियं चोरुष्यथः । किंच हे अश्विनाश्विनौ युवं युवां स्तनयंतं शब्दं कुर्वंतं सप्तास्यं सर्पणशीलद्वारं व्रजं मेघं व्रजः चरुरितिमेघनामसु पाठात् । सनिभ्योहविषां दातृभ्यः अपोर्णुथः विवृतद्वारं कृतवंतौ स्थइत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९