मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४०, ऋक् १०

संहिता

जी॒वं रु॑दन्ति॒ वि म॑यन्ते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ ।
वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मय॒ः पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ ॥

पदपाठः

जी॒वम् । रु॒द॒न्ति॒ । वि । म॒य॒न्ते॒ । अ॒ध्व॒रे । दी॒र्घाम् । अनु॑ । प्रऽसि॑तिम् । दी॒धि॒युः॒ । नरः॑ ।
वा॒मम् । पि॒तृऽभ्यः॑ । ये । इ॒दम् । स॒म्ऽए॒रि॒रे । मयः॑ । पति॑ऽभ्यः । जन॑यः । प॒रि॒ऽस्वजे॑ ॥

सायणभाष्यम्

हे अश्विनौ युवयोरनुग्रहात् ये नरः पतयोजायानां जीवं जीवनमुद्दिश्य रुदंति रोदने नापि जायानां जीवनमेव आशासतइत्यर्थः । ताजायाअध्वरे यज्ञे विमयंते निवेशयंति च । किंच तासु दीर्घां महतीं प्रसितिं भुजयोः प्रबंधननुदीधियुःअनुदधति इदं वामं वननीयम- पत्यं पितृभ्यः समेरिरे सप्रेरयंति तेभ्यः पतिभ्योजनयोजायाःपरिष्वजे परिष्वंगार्थं मयः सु- खं कुर्वंतीतिशेषः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९