मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४०, ऋक् ११

संहिता

न तस्य॑ विद्म॒ तदु॒ षु प्र वो॑चत॒ युवा॑ ह॒ यद्यु॑व॒त्याः क्षेति॒ योनि॑षु ।
प्रि॒योस्रि॑यस्य वृष॒भस्य॑ रे॒तिनो॑ गृ॒हं ग॑मेमाश्विना॒ तदु॑श्मसि ॥

पदपाठः

न । तस्य॑ । वि॒द्म॒ । तत् । ऊं॒ इति॑ । सु । प्र । वो॒च॒त॒ । युवा॑ । ह॒ । यत् । यु॒व॒त्याः । क्षेति॑ । योनि॑षु ।
प्रि॒यऽउ॑स्रियस्य । वृ॒ष॒भस्य॑ । रे॒तिनः॑ । गृ॒हम् । ग॒मे॒म॒ । अ॒श्वि॒ना॒ । तत् । उ॒श्म॒सि॒ ॥

सायणभाष्यम्

हे अश्विनाश्विनौ तस्य तत् सुखं वयं न विद्म न जानीम तत्सुखं यूयं सु सुष्ठु प्रवो- चत । बहुवचनं पूजार्थं युवा ह तरुणः खलु मत्पतिः युवत्या यौवनान्वितायामम योनिषु गृहेषु यत् क्षेति निवसतीति । किंच प्रियोस्रियस्य प्रिययुवतेर्वृषभस्य सेक्तुः रेतिनोरेतस्वि- नोमत्पतेर्गृहं गमेम गच्छेम वयंतद्गृहमुश्मसि कामयामहे ॥ ११ । ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०