मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४०, ऋक् १२

संहिता

आ वा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामा॑ अयंसत ।
अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्याँ॑ अशीमहि ॥

पदपाठः

आ । वा॒म् । अ॒ग॒न् । सु॒ऽम॒तिः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । नि । अ॒श्वि॒ना॒ । हृ॒त्ऽसु । कामाः॑ । अ॒यं॒स॒त॒ ।
अभू॑तम् । गो॒पा । मि॒थु॒ना । शु॒भः॒ । प॒ती॒ इति॑ । प्रि॒याः । अ॒र्य॒म्णः । दुर्या॑न् । अ॒शी॒म॒हि॒ ॥

सायणभाष्यम्

हे वाजिनीवसू अन्नधनौ शुभस्पती उदकस्य स्वामिनौ हे अश्विनाश्विनौ मिथुना मिथु- नौ परस्परसहितौ वां युवां सुमतिरागन् आगच्छतु हृत्स्व्मदीयेषु हृदयेषु कामाः अभि- लाषाः न्ययंसत नियम्यंताम् । किंच युवां गोपामम गोपायितारावभूतं भवतम् । अपिच प्रियाः सत्योवयं अर्यम्णः पत्युः दुर्यान् गृहान् अशीमहि प्राप्नुयाम ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०