मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४०, ऋक् १३

संहिता

ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आ ध॒त्तं र॒यिं स॒हवी॑रं वच॒स्यवे॑ ।
कृ॒तं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिं ह॑तम् ॥

पदपाठः

ता । म॒न्द॒सा॒ना । मनु॑षः । दु॒रो॒णे । आ । ध॒त्तम् । र॒यिम् । स॒हऽवी॑रम् । व॒च॒स्यवे॑ ।
कृ॒तम् । ती॒र्थम् । सु॒ऽप्र॒पा॒नम् । शु॒भः॒ । प॒ती॒ इति॑ । स्था॒णुम् । प॒थे॒ऽस्थाम् । अप॑ । दुः॒ऽम॒तिम् । ह॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ मंदसाना मंदसानौ ता तौ युवां मनुषोमनष्यस्य मत्पतेर्दुरोणे गृहे वच- स्यवे युष्मत् स्तुतिकामायै मह्यं सहवीरं पुत्रादिसहितं रयिं धनं आधत्तं स्थापयतम् । किंच हे अश्विनौ शुभस्पती उदकस्य स्वामिनौ युवां पतिगृहं गच्छंत्यामम तीर्थं पानाय सुप्र- पाणं कृतं कुरुतम् । किंच युवां पथेष्ठां मार्गस्थं स्थाणुं वृक्षं दुर्मतिं दुर्बुद्धिं परिपंथिनंचाप- हतं अपगमयतं ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०