मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४१, ऋक् १

संहिता

स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्यं१॒॑ रथं॑ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतम् ।
परि॑ज्मानं विद॒थ्यं॑ सुवृ॒क्तिभि॑र्व॒यं व्यु॑ष्टा उ॒षसो॑ हवामहे ॥

पदपाठः

स॒मा॒नम् । ऊं॒ इति॑ । त्यम् । पु॒रु॒ऽहू॒तम् । उ॒क्थ्य॑म् । रथ॑म् । त्रि॒ऽच॒क्रम् । सव॑ना । गनि॑ग्मतम् ।
परि॑ऽज्मानम् । वि॒द॒थ्य॑म् । सु॒वृ॒क्तिऽभिः॑ । व॒यम् । विऽउ॑ष्टौ । उ॒षसः॑ । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे अश्विनौ युवयोः समानमु साधारणमेव त्यं तं पुरुहूतं बहूभिराहुतं उक्थ्यं प्रशस्यं त्रिचक्रं सवना सवनानि यज्ञान् गनिग्मतं प्रतिगच्छंतं परिज्मानं परितोगंतारं विदथ्यं यज्ञहितं रथं उषसोव्युष्टौ सुवृक्तिभिः सुष्ठु दोषवर्जिताभिः स्तुतिभिः वयं हवामहे आह्व- यामः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१