मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४१, ऋक् २

संहिता

प्रा॒त॒र्युजं॑ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा॑णं मधु॒वाह॑नं॒ रथ॑म् ।
विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्य॒ज्ञं होतृ॑मन्तमश्विना ॥

पदपाठः

प्रा॒तः॒ऽयुज॑म् । ना॒स॒त्या॒ । अधि॑ । ति॒ष्ठ॒थः॒ । प्रा॒तः॒ऽयावा॑नम् । म॒धु॒ऽवाह॑नम् । रथ॑म् ।
विशः॑ । येन॑ । गच्छ॑थः । यज्व॑रीः । न॒रा॒ । की॒रेः । चि॒त् । य॒ज्ञम् । होतृ॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हेनासत्या नासत्यभूतौ सत्यस्य प्रणेतारौ वा नरा नेतारावश्विनौ युवां प्रातर्युजं प्रातः- काले अश्वैर्युज्यमानं प्रातर्यावाणं प्रातर्गंतारं मधुवाहनं मधुनोमृतस्य वाहकं तंरथं अधि- तिष्ठथः आरोहथइत्यर्थः । यज्वरीर्यजनशीलाः विशः प्रजाः येन रथेन गच्छथः येन च कीरेश्चित् स्तोतुरपि होतृमंतं ऋत्विगूयुक्तं यज्ञं गच्छथः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१