मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४२, ऋक् २

संहिता

दोहे॑न॒ गामुप॑ शिक्षा॒ सखा॑यं॒ प्र बो॑धय जरितर्जा॒रमिन्द्र॑म् ।
कोशं॒ न पू॒र्णं वसु॑ना॒ न्यृ॑ष्ट॒मा च्या॑वय मघ॒देया॑य॒ शूर॑म् ॥

पदपाठः

दोहे॑न । गाम् । उप॑ । शि॒क्ष॒ । सखा॑यम् । प्र । बो॒ध॒य॒ । ज॒रि॒तः॒ । जा॒रम् । इन्द्र॑म् ।
कोश॑म् । न । पू॒र्णम् । वसु॑ना । निऽऋ॑ष्टम् । आ । च्य॒व॒य॒ । म॒घ॒ऽदेया॑य । शूर॑म् ॥

सायणभाष्यम्

हे जरितस्त्वं दोहेन कामानां दोहनार्थं गां गोरूपं सखायं प्रियमिंद्रमुपशिक्ष वशं नय । किंच जारं भूतानां जरयितारमिद्रं प्रबोधय स्तुतिभिः प्रबुद्धं कुरु । किंच पूर्णमुदकेन पूरि- तं कोशं न पात्रमिव वारिभिः वसुना हिरण्यादिना धनेन न्यृष्टं नीचैर्गतं शूरं वीरमिंद्रं मघदेयाय धनदानाय च्यवय अभिमुखं कुर्वित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२