मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४२, ऋक् ३

संहिता

किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि ।
अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥

पदपाठः

किम् । अ॒ङ्ग । त्वा॒ । म॒घ॒ऽव॒न् । भो॒जम् । आ॒हुः॒ । शि॒शी॒हि । मा॒ । शि॒श॒यम् । त्वा॒ । शृ॒णो॒मि॒ ।
अप्न॑स्वती । मम॑ । धीः । अ॒स्तु॒ । श॒क्र॒ । व॒सु॒ऽविद॑म् । भग॑म् । इ॒न्द्र॒ । आ । भ॒र॒ । नः॒ ॥

सायणभाष्यम्

अंगेति सामान्याह्वानं अंग हे मघवन् धनवन् शक्रेंद्र त्वा वां किं किमर्थं भोजं स्तो- तॄणां भोजकमभीष्टदमाहुः सर्वे विद्वांसः यदि नददासीत्यध्यहारः तस्माद्ददास्येव स्तोतृ- भ्योधनानीत्यर्थः तथासति मा मां स्तोतारं शिशीहि धनदानेन तीक्ष्णीकुरु । त्वा त्वां शिशयं स्तोतॄणां संस्कर्तारं शृणोमि । किंच मम धीर्बुद्धिः अप्नस्वती कर्मवत्यस्तुभवतु । किंच नोस्माकं वसुविदं धनस्य लंभकं भगं भाग्यमाभर आहर ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२