मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४२, ऋक् ४

संहिता

त्वां जना॑ ममस॒त्येष्वि॑न्द्र संतस्था॒ना वि ह्व॑यन्ते समी॒के ।
अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॒न्नासु॑न्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥

पदपाठः

त्वाम् । जनाः॑ । म॒म॒ऽस॒त्येषु॑ । इ॒न्द्र॒ । स॒म्ऽत॒स्था॒नाः । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के ।
अत्र॑ । युज॑म् । कृ॒णु॒ते॒ । यः । ह॒विष्मा॑न् । न । असु॑न्वता । स॒ख्यम् । व॒ष्टि॒ । शूरः॑ ॥

सायणभाष्यम्

हे इंद्र त्वां जनाममसत्येषु संग्रामेषु विह्वयंते विविधमाह्वयंति सहायार्थम् । एतदेव दर्शयति—समीपे युक्ते संतस्थानाः सम्यक् तिष्ठंतोजनाविह्वयंतइति । अत्रास्मिन्नाह्वाने सशूरोवीरइंद्रस्तं युजं सखायं कृणुते कुरुते योहविष्मान् भवति असुन्वता सोमाभिषवम- कुर्वता पुरुषेण सह सख्यं सखित्वं न वष्टि न कामयते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२