मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४२, ऋक् ५

संहिता

धनं॒ न स्य॒न्द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्त्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान् ।
तस्मै॒ शत्रू॑न्त्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ॥

पदपाठः

धन॑म् । न । स्य॒न्द्रम् । ब॒हु॒लम् । यः । अ॒स्मै॒ । ती॒व्रान् । सोमा॑न् । आ॒ऽसु॒नोति॑ । प्रय॑स्वान् ।
तस्मै॑ । शत्रू॑न् । सु॒ऽतुका॑न् । प्रा॒तः । अह्नः॑ । नि । सु॒ऽअष्ट्रा॑न् । यु॒वति॑ । हन्ति॑ । वृ॒त्रम् ॥

सायणभाष्यम्

प्रयस्वान् हविष्मान् योयजमानः स्पंद्रं स्पंदनशीलं गवाश्वादिकं बहुलं प्रभूतं धनं न यथा धनं दरिद्राय पात्रभूताय दातुं संस्कारोति तद्वदस्माइंद्राय तीव्रान् तीव्ररसान् सोमा नासुमोति अभिषुणोति अभिषवाख्येन संस्करेण संस्करोति तस्मै यजमानाय प्रातरह्नः पूर्वाह्वः सुतुकान् सुप्रेरणान् शोभनपुत्रन्वास्वष्ट्रान् ज्ञानायुधान् शत्रून् नियुवति सइंद्रः पृ- थक् करोति । किंच वृत्रं तदीयमुपद्रवं हंति हिनस्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२