यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे ।
आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या॑ नमन्ताम् ॥
यस्मि॑न् । व॒यम् । द॒धि॒म । शंस॑म् । इन्द्रे॑ । यः । शि॒श्राय॑ । म॒घऽवा॑ । काम॑म् । अ॒स्मे इति॑ ।
आ॒रात् । चि॒त् । सन् । भ॒य॒ता॒म् । अ॒स्य॒ । शत्रुः॑ । नि । अ॒स्मै॒ । द्यु॒म्ना । जन्या॑ । न॒म॒न्ता॒म् ॥
यस्मिन्निंद्रे वयं घोषेयाः सुहस्त्याः शंसं स्तुतिं दधीम विदधीमः । यश्च मघवा धनवा- निंद्रोस्मेस्मासु काममभिलाषं शिश्राय श्रयति अस्येंद्रस्य शत्रुरारात् दूरएव संश्चित् सन्न- पि भयतां बिभेतु । किंचास्माइंद्राय जन्या जन्यानि शत्रुजनपदभवानि द्युम्ना द्युम्नानि अन्नानि निनमंतां प्रह्वीभवंतु भोजनीयानि भवंत्वित्यर्थः ॥ ६ ॥