मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४२, ऋक् ७

संहिता

आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्ब॑ः पुरुहूत॒ तेन॑ ।
अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् ॥

पदपाठः

आ॒रात् । शत्रु॑म् । अप॑ । बा॒ध॒स्व॒ । दू॒रम् । उ॒ग्रः । यः । शम्बः॑ । पु॒रु॒ऽहू॒त॒ । तेन॑ ।
अ॒स्मे इति॑ । धे॒हि॒ । यव॑ऽमत् । गोऽम॑त् । इ॒न्द्र॒ । कृ॒धि । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽरत्नाम् ॥

सायणभाष्यम्

हे पुरुहूत बहुभिराहूतेंद्र तव यउग्रउद्गूर्णः शंबोवज्रः तथाच यास्कः—शंबइति वज्र- नाम शमयतेर्वा शायतेर्वा इति । तेन वज्रेण शत्रुमस्मदरिं आरात् अस्मत्समीपात् दूरमप- बाधस्व त्वमपगमय । किंच अस्मे अस्मासु यवमत् यवयुक्तं गोमद्गोयुक्तं च धनं धेहि निधेहि । किंच जरित्रे स्तोत्रे मह्यं वाजरत्नां रमणीयान्नां धियं कर्म कृधि कुरु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३