मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४२, ऋक् ८

संहिता

प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म् ।
नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥

पदपाठः

प्र । यम् । अ॒न्तः । वृ॒ष॒ऽस॒वासः॑ । अग्म॑न् । ती॒व्राः । सोमाः॑ । ब॒हु॒लऽअ॑न्तासः । इन्द्र॑म् ।
न । अह॑ । दा॒मान॑म् । म॒घऽवा॑ । नि । यं॒स॒त् । नि । सु॒न्व॒ते । व॒ह॒ति॒ । भूरि॑ । वा॒मम् ॥

सायणभाष्यम्

अंतर्जठरे यमिंद्रं वृषसवासः वृषसवाः अग्नौ सोमस्य वर्षितृभिरध्वर्युभिरभिषुतास्तीव्रा स्तीव्ररसाबहुलांतासोबहुलमन्नादिकमंते येभ्यः ते बहुलांताः सोमाः प्राग्मन् प्रगच्छंति । समववा धनवानिंद्रः दामानं दातारं यजमानं नाह नैव नियंसत् नियच्छति किंतु सुन्वते सोमाभिषवं कुर्वते यजमानाय भूरि अधिकं वामं वननीयं धनं निवहति नितरां प्राप- यति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३