मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४२, ऋक् ९

संहिता

उ॒त प्र॒हाम॑ति॒दीव्या॑ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले ।
यो दे॒वका॑मो॒ न धना॑ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ॥

पदपाठः

उ॒त । प्र॒ऽहाम् । अ॒ति॒ऽदीव्य॑ । ज॒या॒ति॒ । कृ॒तम् । यत् । श्व॒ऽघ्नी । वि॒ऽचि॒नोति॑ । का॒ले ।
यः । दे॒वऽका॑मः । न । धना॑ । रु॒ण॒द्धि॒ । सम् । इत् । तम् । रा॒या । सृ॒ज॒ति॒ । स्व॒धाऽवा॑न् ॥

सायणभाष्यम्

उतापिचेंद्रः प्रहां प्रहंतारमतिदीव्यः अतिरभिपूजितार्थे वर्तते दीव्यतिर्गत्यर्थः अभिपू- जितं गमयित्वा जयाति जयति । किंच यत् यथा अत्र प्रकारवचनप्रत्ययस्य लोपोद्रष्टव्यः । श्वघ्नीकितवः कृतं कृतसमयं प्रति कितवं कितवानां मध्ये विचिनोति परिक्ष्यगृह्णाती तद्व दिंद्रः काले युद्धकाले बलवंतं शत्रुं परीक्ष्य वधार्थं गृह्णातीत्यर्थः । किंच योमनुष्योदेवका- मोदेवान् यष्टुं स्तोतुं वाभिलाषवान् भवति तस्यार्थाय धना धनानि न रुणाद्धि नावृणो- ति नाच्छादयतीत्यर्थः । किंतु प्रकाशयति स्वधावान् बलवानिंद्रः तं देवकामं राया धनेन संसृजतीत् संयाजयत्येव ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३