मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४२, ऋक् १०

संहिता

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् ।
व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥

पदपाठः

गोभिः॑ । त॒रे॒म॒ । अम॑तिम् । दुः॒ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ।
व॒यम् । राज॑ऽभिः । प्र॒थ॒मा । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥

सायणभाष्यम्

हे पुरुहूत बहुभिराहूतेंद्र तव प्रसादात् दुरेवां दुष्टागमनां दारिद्भ्यादागताममतिं दुर्बु- द्धिं वयं घोषेयाः सुहस्त्यागोभिः पशुभिस्तरेम निस्तरेम । किंच यवेन विश्वां व्याप्तां क्षुधं तरेम । किंच प्रथमा मुख्यानि धनानि राजभिर्धनानामीश्वरैर्लभेमहीतिशॆषः । यद्वा प्रथमा- वयमिति संबंधः किंचास्माकेन अस्मदीयेन वृजनेन बलेन जयेम शत्रूनितिशेषः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३