मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४२, ऋक् ११

संहिता

बृह॒स्पति॑र्न॒ः परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।
इन्द्र॑ः पु॒रस्ता॑दु॒त म॑ध्य॒तो न॒ः सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥

पदपाठः

बृह॒स्पतिः॑ । नः॒ । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् । अध॑रात् । अ॒घ॒ऽयोः ।
इन्द्रः॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ । सखि॑ऽभ्यः । वरि॑वः । कृ॒णो॒तु॒ ॥

सायणभाष्यम्

पश्चात्पश्चिमतः उतापिच उत्तरस्मात् उत्तरतः अधरात् दक्षिणतश्च योघायुरागच्छति तस्मादघायोः पापकाच्छत्रोर्नोस्मान् बृहस्पतिः परिपातु । उतापिचेद्रः पुरस्तात् पूर्वतोम- ध्यतश्च योघायुरागच्छति तस्मादघायोर्नोस्मान् परिपातु । किंच सखासखिभूतेंद्रः सखिभ्यः प्रियेभ्यो स्मभ्यं वरिवोधनं कृणोतु करोतु ॥ ११ ॥

चतुर्थेनुवाके अष्टादश सूक्तानि तत्राच्छामइत्येकादशर्चं प्रथमं सूक्तं दशम्येकादश्यौ त्रिष्टुभौ शिष्टाजगत्यः पूर्ववदृषिदेवते । तथाचानुक्रांतं—अच्छामे द्वित्रिष्टुबंतंत्विति । उक्थ्ये ब्राह्मणाच्छंसिनस्तृतीयसवनेएतत्सूक्तम् । सूत्रितंच—अच्छामइंद्रबृहस्पतेयुवमिंद्रश्चवस्वइति या- ज्ये इति । पृष्ठ्येहन्यप्येतत्सूक्तम् । सूत्रितंच—अच्छामइंद्रमिति नित्यमैकाहिकमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३