मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४३, ऋक् २

संहिता

न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय ।
राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्त्सु सोमे॑ऽव॒पान॑मस्तु ते ॥

पदपाठः

न । घ॒ । त्व॒द्रिक् । अप॑ । वे॒ति॒ । मे॒ । मनः॑ । त्वे इति॑ । इत् । काम॑म् । पु॒रु॒ऽहू॒त॒ । शि॒श्र॒य॒ ।
राजा॑ऽइव । द॒स्म॒ । नि । स॒दः॒ । अधि॑ । ब॒र्हिषि॑ । अ॒स्मिन् । सु । सोमे॑ । अ॒व॒ऽपान॑म् । अ॒स्तु॒ । ते॒ ॥

सायणभाष्यम्

हे पुरुहूत बहुभिराहूत दस्म दर्शनीयेंद्र त्वद्रिक् त्वदभिमुखं मे मदीयं मनोन घ नख- ल्वपवेति त्वत्तोपगच्छति । किंच त्वे इत् त्वय्येव काममभिलाषं शिश्रयं स्थापयामि । किं- च राजेव ईश्वरइव बर्हिष्यधि निषदः । किंच ते तवास्मिन् सोमे सुशोभनं अवपानमस्तु भवतु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४