मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४३, ऋक् ३

संहिता

वि॒षू॒वृदिन्द्रो॒ अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते ।
तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः॑ ॥

पदपाठः

वि॒षु॒ऽवृत् । इन्द्रः॑ । अम॑तेः । उ॒त । क्षु॒धः । सः । इत् । रा॒यः । म॒घऽवा॑ । वस्वः॑ । ई॒श॒ते॒ ।
तस्य॑ । इत् । इ॒मे । प्र॒व॒णे । स॒प्त । सिन्ध॑वः । वयः॑ । व॒र्ध॒न्ति॒ । वृ॒ष॒भस्य॑ । शु॒ष्मिणः॑ ॥

सायणभाष्यम्

इंद्रः अमतेरस्माकं दुर्बुद्धेः प्रजापहारिण्याः पिपासायावा विषूवृत् विष्वग्वर्तकोभवतु । उतापिच क्षुधोबुभुक्षायाः विषूवृद्भवतु । किंच सइत् सएव मघवा धनवानिंद्रोवस्वोवासयि तुः रायोधनस्य ईशते ईष्टे । किंच वृषभस्य वर्षितुः शुष्मिणः बलवतः तस्येत् इंद्रस्यैव इमे प्रसिद्धाः सप्त सप्तसंख्याकाः सिंधवोनद्यः प्रवणे देशे वयोन्नं वर्धन्ति वर्धयंति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४