मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४३, ऋक् ४

संहिता

वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न्त्सोमा॑स॒ इन्द्रं॑ म॒न्दिन॑श्चमू॒षदः॑ ।
प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व१॒॑र्मन॑वे॒ ज्योति॒रार्य॑म् ॥

पदपाठः

वयः॑ । न । वृ॒क्षम् । सु॒ऽप॒ला॒शम् । आ । अ॒स॒द॒न् । सोमा॑सः । इन्द्र॑म् । म॒न्दिनः॑ । च॒मू॒ऽसदः॑ ।
प्र । ए॒षा॒म् । अनी॑कम् । शव॑सा । दवि॑द्युतत् । वि॒दत् । स्वः॑ । मन॑वे । ज्योतिः॑ । आर्य॑म् ॥

सायणभाष्यम्

वयोन यथा पक्षिणः सुपलाशं शोभनपर्णं वृक्षमासदन् आसीदंति तद्वन्मंदिनोमदकरा- श्चमूषदश्चमसपात्रेषु स्थातारः सोमासः सोमाः इंद्रमासदन् आसीदंति अधितिष्ठंतीत्यर्थः । एषामिंद्रमधितिष्ठतां सोमानां शवसा वेगेन युक्तमनीकमग्रं प्रदविद्युतत् प्रद्योतते । किंचा- यमिंद्रः स्वः स्वात्मना आर्यं प्रेर्यं ज्योतिरादित्याख्यं तेजोमनवे मनुष्येभ्योविदत् प्रयच्छतु । ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४