मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४३, ऋक् ५

संहिता

कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् ।
न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं॑ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥

पदपाठः

कृ॒तम् । न । श्व॒ऽघ्नी । वि । चि॒नो॒ति॒ । देव॑ने । स॒म्ऽवर्ग॑म् । यत् । म॒घऽवा॑ । सूर्य॑म् । जय॑त् ।
न । तत् । ते॒ । अ॒न्यः । अनु॑ । वी॒र्य॑म् । श॒क॒त् । न । पु॒रा॒णः । म॒घ॒ऽव॒न् । न । उ॒त । नूत॑नः ॥

सायणभाष्यम्

श्वघ्नी परस्वानां हंता कितवोदेवने द्यूते कृतं न यथा हतं विचिनोति तद्वदिंद्रः सूर्यं मृगयते । कदेत्यतआह—यद्यदामघवा धनवानिंद्रः संवर्गं सम्यक् वृष्टेः वर्जयितारं सूर्यमा- दित्यं जयत् तदीयरसापहरणद्वारेण जयति । अथ प्रत्यक्षस्तुतिः हे मघवन्धनवन्निंद्र ते तव तत् सूर्यजयलक्षणं वीर्यं वीरत्वमन्यस्त्वत्तोन्योभविष्यत्कालीनः पुमान् अनु अनुकर्तुं न शकत् न शक्नोति पुराणः पुरातनोपि त्वद्वीर्यं अनुकर्तुं न शकत् न शक्नोति । उतापिच नूतनोवर्तमानकालीनोपि त्वदीयं वीर्यंअनुकर्तुं न शक्नोति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४