मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४३, ऋक् ६

संहिता

विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑ ।
यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमै॑ः सहते पृतन्य॒तः ॥

पदपाठः

विश॑म्ऽविशम् । म॒घऽवा॑ । परि॑ । अ॒शा॒य॒त॒ । जना॑नाम् । धेनाः॑ । अ॒व॒ऽचाक॑शत् । वृषा॑ ।
यस्य॑ । अह॑ । श॒क्रः । सव॑नेषु । रण्य॑ति । सः । ती॒व्रैः । सोमैः॑ । स॒ह॒ते॒ । पृ॒त॒न्य॒तः ॥

सायणभाष्यम्

वृषा कामानां वर्षिता मघवा धनवानिंद्रोविशंविशंसर्वान्मनुष्यान् पर्यशायत परिशॆते । किञ्च जनानां स्तोतृजनानां धेनाः स्तुतीः अवचाकशत् अभिपश्यति । किंच शक्रइंद्रोयस्या ह यस्यैव यजमानस्य सवनेषु रण्यति रमते सयजमानस्तीव्रैः तीव्राकारैः प्रदीयमानैः सो- मैः पृतन्यतः संग्राममिच्छतः शत्रून् सहतेभिभवति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५