मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४३, ऋक् ७

संहिता

आपो॒ न सिन्धु॑म॒भि यत्स॒मक्ष॑र॒न्त्सोमा॑स॒ इन्द्रं॑ कु॒ल्या इ॑व ह्र॒दम् ।
वर्ध॑न्ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ॥

पदपाठः

आपः॑ । न । सिन्धु॑म् । अ॒भि । यत् । स॒म्ऽअक्ष॑रन् । सोमा॑सः । इन्द्र॑म् । कु॒ल्याःऽइ॑व । ह्र॒दम् ।
वर्ध॑न्ति । विप्राः॑ । महः॑ । अ॒स्य॒ । साद॑ने । यव॑म् । न । वृ॒ष्टिः । दि॒व्येन॑ । दानु॑ना ॥

सायणभाष्यम्

यद्यदा सोमासः सोमाः इंद्रमभिसमक्षरन् अभिक्षरंति अभिगच्छंतीत्यर्थः । तत्रदृष्टांतौ दर्शयति—आपोन यथा आपः सिंधुं समुद्रमभिसमक्षरंति कुल्याइव यथा च कुल्याः ह्रद- मभिसमक्षरंति तद्वदित्यर्थः । तदानीमस्येंद्रस्य महोमहत्त्वं सदने यज्ञे विप्रामेधाविनोवर्धन्ति वर्धयन्ति । तत्रदृष्टांतमाह—यवंन यथा यवं यवसस्यं वृष्टिः कर्तरि कृत् वर्षितापर्जन्योदि- व्येन दिविभवेन दानुना दानेन वर्षणेन वर्धयति तद्वदित्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५