मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४३, ऋक् ८

संहिता

वृषा॒ न क्रु॒द्धः प॑तय॒द्रज॒स्स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः ।
स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽवि॑न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥

पदपाठः

वृषा॑ । न । क्रु॒द्धः । प॒त॒य॒त् । रजः॑ऽसु । आ । यः । अ॒र्यऽप॑त्नीः । अकृ॑णोत् । इ॒माः । अ॒पः ।
सः । सु॒न्व॒ते । म॒घऽवा॑ । जी॒रऽदा॑नवे । अवि॑न्दत् । ज्योतिः॑ । मन॑वे । ह॒विष्म॑ते ॥

सायणभाष्यम्

रजःसु लोकेषु वृषा न यथा वृषभः क्रुद्धः सन् प्रतिवृषभवधाय पतयत् गच्छति तद्वत् यइंद्रः क्रुद्धः सन् मेघवधाय पतति हत्वा च मेघं अर्यपत्नीः सर्वस्य जगतः स्वामिनइंद्रस्य पालयितव्याः इमाः प्रसिद्धाः अपः वृष्ट्युदकानि आकृणोत् आकृणोति । अस्मदभिमुखं क- रोति समघवा धनवानिंद्रः सुन्वते सोमाभिषवं कुर्वते जीरदानवे क्षिप्रदानाय हविष्मते मनवे मनुष्याय यजमानायेत्यर्थः । ज्योतिस्तेजोऽविंदत् प्रायच्छत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५